Close Menu
Subscribe :

Devotional Album

Devotional Sanskrit 0:08:55 7+ Views

Mahalakshmi Stotram

Super Hit Devotional track Mahalakshmi Stotram sung by Rinky Vishwakarma.

Share this track

Song Lyrics / बोल

Official lyrics for Mahalakshmi Stotram sung by Rinky Vishwakarma

F-ऊँ नम: कमलवासिन्यै नारायण्यै नमो नम:
कृष्णप्रियायै सारायै पद्मायै च नमो नम: -२
पद्मपत्रेक्षणायै च पद्मास्यायै नमो नम:
पद्मासनायै पद्मिन्यै वैष्णव्यै च नमो नम:
कोरस - वैष्णव्यै च नमो नम:
F- सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नम:
सुखदायै मोक्षदायै सिद्धिदायै नमो नम: - २
हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नम:
कृष्णवक्ष:स्थितायै च कृष्णेशायै नमो नम:
कोरस - कृष्णेशायै नमो नम:
F- कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने
सम्पत्त्यधिष्ठातृदेव्यै महादेव्यै नमो नम: - २
शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नम:
नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नम:
कोरस - बुद्धिदायै नमो नम:
F- वैकुण्ठे या महालक्ष्मीर्लक्ष्मी: क्षीरोदसागरे
स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये - २
गृहलक्ष्मीश्च गृहिणां गेहे च गृहदेवता
सुरभी सा गवां माता दक्षिणा यज्ञकामिनी
कोरस - दक्षिणा यज्ञकामिनी
F- अदितिर्देवमाता त्वं कमला कमलालये
स्वाहा त्वं च हविर्दाने कव्यदाने स्वधा स्मृता - २
त्वं हि विष्णुस्वरूपा च सर्वाधारा वसुन्धरा
शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा
कोरस - नारायणपरायणा
F- क्रोधहिंसावर्जिता च वरदा च शुभानना
परमार्थप्रदा त्वं च हरिदास्यप्रदा परा - २
यया विना जगत् सर्वं भस्मीभूतमसारकम्
जीवन्मृतं च विश्वं च शवतुल्यं यया विना
कोरस - शवतुल्यं यया विना
F- सर्वेषां च परा त्वं हि सर्वबान्धवरूपिणी
यया विना न सम्भाष्यो बान्धवैर्बान्धव: सदा - २
त्वया हीनो बन्धुहीनस्त्वया युक्त: सबान्धव:
धर्मार्थकाममोक्षाणां त्वं च कारणरूपिणी
कोरस - त्वं च कारणरूपिणी
F- यथा माता स्तनन्धानां शिशूनां शैशवे सदा
तथा त्वं सर्वदा माता सर्वेषां सर्वरूपत:- २
मातृहीन: स्तनत्यक्त: स चेज्जीवति दैवत:
त्वया हीनो जन: कोsपि न जीवत्येव निश्चितम्
कोरस - जीवत्येव निश्चितम्
F- सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके
वैरिग्रस्तं च विषयं देहि मह्यं सनातनि - २
वयं यावत् त्वया हीना बन्धुहीनाश्च भिक्षुका:
सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये
कोरस - तावदेव हरिप्रिये
F- राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि
कीर्तिं देहि धनं देहि यशो मह्यं च देहि वै - २
कामं देहि मतिं देहि भोगान् देहि हरिप्रिये
ज्ञानं देहि च धर्मं च सर्वसौभाग्यमीप्सितम्
कोरस - सर्वसौभाग्यमीप्सितम्
F- प्रभावं च प्रतापं च सर्वाधिकारमेव च
जयं पराक्रमं युद्धे परमैश्वर्यमेव च - २
इदं स्तोत्रं महापुण्यं त्रिसंध्यं य: पठेन्नर:
कुबेरतुल्य: स भवेद् राजराजेश्वरो महान्
कोरस - राजराजेश्वरो महान्
F- सिद्धस्तोत्रं यदि पठेत् सोsपि कल्पतरुर्नर:
पंचलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणाम् - २
सिद्धिस्तोत्रं यदि पठेन्मासमेकं च संयत:
महासुखी च राजेन्द्रो भविष्यति न संशय:
कोरस - भविष्यति न संशय:
F- इति श्रीब्रह्मवैवर्तमहापुराणे इन्द्रकृतं लक्ष्मीस्तोत्रं सम्पूर्णम्
लेखक :- Traditional
Lyrics copied to clipboard!
Bajrang Baan-Lofi
Pawan Brijwasi
0:00 0:03:40