Close Menu
Subscribe :

Devotional Album

Devotional Sanskrit 0:07:00 2+ Views

Panchmukhi Hanuman Kavach

Super Hit Devotional track Panchmukhi Hanuman Kavach sung by Rinky Vishwakarma, Suraj Vishwakarma.

Share this track

Song Lyrics / बोल

Official lyrics for Panchmukhi Hanuman Kavach sung by Rinky Vishwakarma, Suraj Vishwakarma

M- ॐ श्री पंचवदनायांजनेयाय नमः
अस्य श्री पंचमुखहनुमत्कवचमन्त्रस्य ब्रह्मा ऋषिः,
गायत्रीछन्दः,पंचमुखविराट्हनुमान्‌ देवता, ह्रीं बीजं
श्रीं शक्ति, क्रौं कीलकं, क्रूं कवचं, क्रैं अस्राय फट् इति दिग्बन्धः
श्री गरुड उवाच:
F- अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरि
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्‌FF
F/M- अथ ध्यानं प्रवक्ष्यामि श्रृणुसर्वांगसुन्दरि
यत्कृतं देवदेवेन ध्यानं हनुमतः प्रियम्‌
पंचवक्त्रं महाभीमं त्रिपंचनयनैर्युतम्‌ - २
बाहुभिर्दशभिर्युक्तं सर्वकामार्थसिद्धिदम्‌
कोरस - ॐ हनु हनुमते नमः - ४
F- पूर्वंतु वानरं वक्त्रं कोटिसूर्यसमप्रभम्‌
दंष्ट्राकरालवदनं भृकुटीकुटिलेक्षणम्‌
F/M- अस्यैव दक्षिणं वक्त्रं नारसिंहं महाद्भुतम्‌
अत्युग्रतेजोवपुषं भीषणं भयनाशनम्‌
पश्चिमं गारुडं वक्त्रं वक्रतुंडं महाबलम्‌
सर्वनागप्रशमनं विषभूतादिकृन्तनम्‌
उत्तरं सौकरं वक्त्रं कृष्णं दीप्तं नभोपमम्‌
कोरस - ॐ हनु हनुमते नमः - ४
F- पातालसिंहवेतालज्वररोगादिकृन्तनम्‌
ऊर्ध्वं हयाननं घोरं दानवांतकरं परम
येन वक्त्रेण विप्रेंद्र तारकाख्यं महासुरम्‌
जघान शरणं तत्स्यात्सर्वशत्रुहरं परम्‌
ध्यात्वा पंचमुखं रुद्रं हनुमन्तं दयानिधिम्‌
खंग त्रिशूलं खट्वांगं पाशमंकुशपर्वतम्‌
मुष्टिं कौमोदकीं वृक्षं धारयन्तं कमण्डलुम्‌
कोरस - ॐ हनु हनुमते नमः - ४
F- भिन्दिपालं ज्ञानमुद्रां दशभिर्मुनिपुंगवम्‌
एतान्यायुधजालानि धारयन्तं भजाम्यहम्‌
प्रेतासनोपविष्टं तं सर्वाभरणभूषितम्‌
दिव्यमाल्याम्बरघर दिव्यगन्धानुलेपनम्‌
सर्वाश्चर्यमय देव हनुमद्विश्वतोमुखम्‌
पश्चास्यमच्युतम नेकविचित्रवर्णं वक्त्रं
शशांकशिखरं कपिराजवयम
कोरस - ॐ हनु हनुमते नमः - ४
F- पीतांबरादिमुकुटैरूपशोभितांग
पिंगाक्षमाद्यमनिशं मनसा स्मरामि
मर्कटेशं महोत्साहं सर्वशत्रुहरं परम्‌
शत्रु संहर मां रक्ष श्रीमन्नापदमुद्धर
F/M- ॐ हरिमर्कट मर्कट मन्त्रमिदं
परिलिख्यति लिख्यति वामतले
यदि नश्यति नश्यति शत्रुकुलं
यदि मुश्चति मुश्चति वामलता
F- इदं कवचं पठित्वा तु महाकवचं पठेन्नरः
एकवारं जपेत् स्तोत्रम् सर्वशत्रुनिवारणम्
द्विवारं तु पठेन्नित्यं पुत्रपौत्रप्रवर्धनम्
त्रिवारं च पठेन्नित्यं सर्वसम्पत्करं शुभम्
चतुर्वारं पठेन्नित्यं सर्वरोगनिवारणम्
पञ्चवारं पठेन्नित्यं सर्वलोकवशङ्करम्
षड्वारं च पठेन्नित्यं सर्वदेववशङ्करम्
सप्तवारं पठेन्नित्यं सर्वसौभाग्यदायकम्
अष्टवारं पठेन्नित्यमिष्टकामार्थसिद्धिदम्
नववारं पठेन्नित्यं राजभोगमवाप्नुयात्
दशवारं पठेन्नित्यं त्रैलोक्यज्ञानदर्शनम्
रुद्रावृत्तिं पठेन्नित्यं सर्वसिद्धिर्भवेद्धृवम्
कवचस्मरणेनैव महाबलमवाप्नुयात्
इति सुदर्शनसंहितायां श्रीरामचन्द्रसीताप्रोक्तं
श्री पञ्चमुखहनुमत्कवचम्
श्री पंचमुखी हनुमान कवच समाप्तं
कोरस - ॐ हनु हनुमते नमः – ४
लेखक :- Traditional
Lyrics copied to clipboard!
Bajrang Baan-Lofi
Pawan Brijwasi
0:00 0:03:40