Close Menu
Subscribe :

Devotional Album

Devotional Sanskrit 00:04:18 2+ Views

Hanuman Tandav Stotra

Super Hit Devotional track Hanuman Tandav Stotra sung by Prem Prakash Dubey.

Share this track

Song Lyrics / बोल

Official lyrics for Hanuman Tandav Stotra sung by Prem Prakash Dubey

वन्दे सिन्दूरवर्णाभं लोहिताम्बरभूषितम् ।रक्ताङ्गरागशोभाढ्यं शोणापुच्छं कपीश्वरम्॥
भजे समीरनन्दनं, सुभक्तचित्तरञ्जनं,दिनेशरूपभक्षकं, समस्तभक्तरक्षकम् ।
सुकण्ठकार्यसाधकं, विपक्षपक्षबाधकं,समुद्रपारगामिनं, नमामि सिद्धकामिनम् ॥
सुशङ्कितं सुकण्ठभुक्तवान् हि यो हितं वचस्त्वमाशु धैर्य्यमाश्रयात्र वो भयं कदापि न ।
इति प्लवङ्गनाथभाषितं निशम्य वानराऽधिनाथ आप शं तदा, स रामदूत आश्रयः ॥
सुदीर्घबाहुलोचनेन, पुच्छगुच्छशोभिना,भुजद्वयेन सोदरीं निजांसयुग्ममास्थितौ ।
कृतौ हि कोसलाधिपौ, कपीशराजसन्निधौ,विदहजेशलक्ष्मणौ, स मे शिवं करोत्वरम् ॥
सुशब्दशास्त्रपारगं, विलोक्य रामचन्द्रमाः,कपीश नाथसेवकं, समस्तनीतिमार्गगम् ।
प्रशस्य लक्ष्मणं प्रति, प्रलम्बबाहुभूषितः कपीन्द्रसख्यमाकरोत्, स्वकार्यसाधकः प्रभुः ॥
प्रचण्डवेगधारिणं, नगेन्द्रगर्वहारिणं,फणीशमातृगर्वहृद्दृशास्यवासनाशकृत् ।
विभीषणेन सख्यकृद्विदेह जातितापहृत्,सुकण्ठकार्यसाधकं, नमामि यातुधतकम् ॥
नमामि पुष्पमौलिनं, सुवर्णवर्णधारिणंगदायुधेन भूषितं, किरीटकुण्डलान्वितम् ।
सुपुच्छगुच्छतुच्छलङ्कदाहकं सुनायकंविपक्षपक्षराक्षसेन्द्र-सर्ववंशनाशकम् ॥
रघूत्तमस्य सेवकं नमामि लक्ष्मणप्रियं दिनेशवंशभूषणस्य मुद्रीकाप्रदर्शकम् ।
विदेहजातिशोकतापहारिणम् प्रहारिणम्सु सूक्ष्मरूपधारिणं नमामि दीर्घरूपिणम् ॥
नभस्वदात्मजेन भास्वता त्वया कृता महासहा यता यया द्वयोर्हितं ह्यभूत्स्वकृत्यतः ।
सुकण्ठ आप तारकां रघूत्तमो विदेहजां निपात्य वालिनं प्रभुस्ततो दशाननं खलम् ॥
इमं स्तवं कुजेऽह्नि यः पठेत्सुचेतसा नरः कपीशनाथसेवको भुनक्तिसर्वसम्पदः ।
प्लवङ्गराजसत्कृपाकताक्षभाजनस्सदा न शत्रुतो भयं भवेत्कदापि तस्य नुस्त्विह ॥
नेत्राङ्गनन्दधरणीवत्सरेऽनङ्गवासरे ।लोकेश्वराख्यभट्टेन हनुमत्ताण्डवं कृतम् ॥
॥ इति श्री लोकेश्वराख्यभट्टेन हनुमत्ताण्डवं तांडव स्तोत्र ॥
लेखक :- Traditional
Lyrics copied to clipboard!
Bajrang Baan-Lofi
Pawan Brijwasi
0:00 0:03:40